Friday, December 19, 2008

Every day prayer for those suffering from naga / sarpa / rahu dosha

विष्णुलोके च ये सर्पाः अनंताद्या महाबलाः

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

ब्रह्मलोके च ये सर्पाः वासुकिप्रमुखाश्शुभाः

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

इन्द्रलोके च ये सर्पास्तक्षकाद्याः महाबलाः
नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

कैलासलोके ये सर्पाः कार्कोटकबलादयः

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

पाताळलोके ये सर्पा आदिशेषादयो वराः

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

द्वीपान्तरे च ये सर्पाः काळिन्दीनिलयस्तथा

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

सर्वताग्रेषु ये सर्पाश्शिलासंधिषु संस्थिताः

नमोस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

ग्रामे वा यदि वारण्ये ये च सर्पा गृहेषु वा