Wednesday, August 12, 2015

कालचक्रदशा


ग्रहस्थितिगतिवशाज्जातस्य भूतभव्यवर्तमानफलकथनं जातकस्य स्वरूपम् | तत्राऽपि दृढ-अदृढ-दृढाsदृढ प्रभेदेन विभक्तसु कर्मसु दृढकर्मणां फलविपाकस्य कालज्ञानं तु दशान्तर्दशाविचारेणैव भवति । पराशरमहर्षिणा त्रिंशदधिका दशाविधयो दत्ताः जैमिनिप्रभृतिभिरपि अन्याश्च विविधाः दशाः उपदिष्टा: एतासु मुख्यतया चतस्रः ज्यौतिषिकानां नित्योपयोगे वर्तन्ते

. विंशोत्तरी दशा . अष्टोत्तरी दशा . कालचक्रदशा . योगिनी दशा  

अत्र कालचक्रदशापद्धत्यामपि दशान्तर्दशाक्रमेण फलादेशो वर्तते, किन्तु प्रामुख्येन तत्प्रयोजनं तु जातस्य जीवनेSरिष्टाणां ज्ञाने भवति

कालचक्रदशानयनम्
कालचक्रदशा राश्यधिष्ठिता दशा भवति जन्मकालीन चन्द्राधिष्ठित नक्षत्रचरणमेव तद्गणितस्याधारः । अश्विनीप्रभृतीनां नक्षत्राणां दक्षिणहस्तकनिष्ठिका - अनामिका - मध्यमा - वामहस्तकनिष्ठिका -अनामिका - मध्यमा इति क्रमेण गणना कार्या तेन


अङ्गुलिः
नक्षत्राणि
वृन्दम्
वर्गः
दक्षिणकनिष्ठिका
अश्विनी, पुनर्वसुः, हस्तः, मूलम्, पूर्वाभाद्रपदा
अश्विनीवृन्दम्
अश्विनीवर्गः
दक्षिणानामिका
भरणी, पुष्यः, चित्रा, पूर्वाषाढा, उत्तराभाद्रपदा
भरणीवृन्दम्
भरणीवर्गः
दक्षिणमध्यमा
कृत्तिका, आश्रेषा, स्वाती, उत्तराषाढा, रेवती
कृत्तिकावृन्दम्
अश्विनीवर्गः
वामकनिष्ठिका
रोहिणी, मघा, विशाखा, श्रवणम्
रोहिणीवृन्दम्
रोहिणीवर्गः
वामानामिका
मृगशिरः, पूर्वा फल्गुनी, अनुराधा, धनिष्टा
मृगशिरोवृन्दम्
मृगशिरोवर्गः
वाममध्यमा
आर्द्रा, उत्तरा फल्गुनी, ज्येष्ठा, शतभिषक्
आर्द्रावृन्दम्
मृगशिरोवर्गः

एतेषु दक्षिणहस्तस्थानि सव्यनक्षत्राणि तथा वामहस्तस्थानि अपसव्यनक्षत्राणि इति कथ्यन्ते पुनः अश्विनीकृत्तिकावृन्दे मिलित्वा अश्विनीवर्ग इति कथ्येते भरणीवृन्दमेव भरणीवर्गः रोहिणीवृन्दमेव रोहिणीवर्गः मृगशिराऽर्द्रा वृन्दे मिलिवा मृगशिरोवर्गः इति कथ्येते


अश्विनीभरणीरोहिणीमृगशिरोवर्गाणां प्रत्येकं चतुर्णां चरणानां दशाक्रमाः एवं भवन्ति









उदाहरणेन भरणीवर्गस्य दशाक्रमः कर्क - सिंह - मिथुन -वृष - मेष - मीन - कुम्भ - मकर - धनुः इति भवति

अत्र अश्विनीभरणीवर्गौ परस्परं दर्पणप्रतिबिम्बौ भवतः रोहिणीमृगशिरोवर्गौ परस्परं दर्पणप्रतिबिम्बौ भवतः

देहजीवराशौ

सव्यनक्षत्रेषु प्रथमा दशा यस्य राशेः देहराशिरिति कथ्यते तथा अवसानीया दशा यस्य जीवराशिरिति कथ्यते ।अपसव्यनक्षत्रेषु व्यत्ययेन ग्राह्यः अनयोः पापग्रहाणां स्थितिः आधिव्याधिरोगमरणादिकं अनिष्टं सूचयति । पापानां बहुत्वे दोषाधिक्यमपि सूर्येण अग्निभयं क्षीणचन्द्रेण जलभयं भौमेन परिघातभयं पापेन बुधेन झञ्झावातादिभयं मन्देन गुल्मादिवातरोगभयं राहुकेतुभ्यां विषभयं वाच्यम् । शुभैः रोगशोकादिशमनं तथा शुभाशुभसम्मिश्रैर्मिश्रफलं वाच्यम् । देहजीवौ शुभक्षेत्रं वा पापक्षेत्रं इत्यनुसारेणापि फलं शुभं वाअशुभं भवति । एतानि फलानि स्वदशान्तर्दशाकाले अनुभूयन्ते ।

कालचक्रदशानुसारेण नवांशफलम्

नवांशनयनाय सारिणी तत्फलञ्च

नक्षत्रचरणम्
नवांशः
तत्फलम्
अश्विनी वृन्दम् (), मृगशिरो वृन्दम्()
मेषः
शूरः, चोरः
अश्विनी वृन्दम् (), मृगशिरो वृन्दम्()
वृषः
लक्ष्मीवान्
अश्विनी वृन्दम् (), मृगशिरो वृन्दम्()
मिथुनम्
ज्ञानी
अश्विनी वृन्दम् (), मृगशिरो वृन्दम्()
कर्कः
नृपतिः
भरणी वृन्दम् (), रोहिणी वृन्दम् ()
सिंहः
राजमान्यः
भरणी वृन्दम् (), रोहिणी वृन्दम् ()
कन्या
पण्डितः
भरणी वृन्दम् (), रोहिणी वृन्दम् ()
तुला
राजमन्त्री
भरणी वृन्दम् ४), रोहिणी वृन्दम् ()
वृश्चिकः
निर्धनः
कृत्तिका वृन्दम् (), आर्दा वृन्दम् ()
धनुः
ज्ञानसम्पन्नः
कृत्तिका वृन्दम् (), आर्दा वृन्दम् ()
मकरः
पापकृत्
कृत्तिका वृन्दम् (), आर्दा वृन्दम् ()
कुम्भः
वणिक्कर्मा
कृत्तिका वृन्दम् (), आर्दा वृन्दम् ()
मीनः
धनधान्यवान्

मण्डूकीमर्कटी गती सिंहावलोकनं तत्फलञ्च

एकान्तरदशागमनं मण्डूकी गतिरिति कथ्यते यथा – ‌अश्विनीवर्गस्य द्वितीये चरणे अपसव्यक्रमेण कन्यायाः परं यत् सिंहराशिरागन्तुमर्हति तत्स्थाने कर्कराशिरागचछति |
प्रतीपगमनं मर्कटीगतिरिति कथ्यते यथा रिहिणीवर्गस्य चतुर्थे चरणे सिंहात्परं सव्ये क्रमः कन्यासथाने विपरीतं कर्कं प्रति गच्छति | भरणी चतुर्थचरणं परिहाय अन्यत्र यत्र यत्र मण्डूकीगतिर्भवति तत्र तत्र तत्पश्चात् मर्कटीगतिश्च भवत्येव | ‌
स्वस्थानात् पञ्चमनवमौ प्रति गमनं सिंहावलोकनम् |

सव्यनक्षत्रेषु मण्डूकी गतिः  - पित्रोर्वा बान्धवेषु भयंविषशस्त्राग्निचोरादिभयम्

तत्राऽपि सिंहान्मिथुनं प्रति गमने  – मातुर्मरणंस्वमरणंराजभीतिः - सन्निपातरोगः |

सव्यनक्षत्रेषु मर्कटीगतिः  – पित्रोर्वा पितृसमानस्य मरणंधनदान्यपशुक्षयःआलस्यम् |

सव्यनक्षत्रेषु सिंहावलोकनं - पशुभीतिः मित्रैः कलहःकूपादौ पतनंवाहनात् पतनंविषाग्निशस्त्रभयंज्वरःस्थानच्युतिः |
वामनक्षत्रेषु मण्डूकीगतिःभार्यापुत्रादिभ्यः पीडापशुभयंज्वरःस्थाननाशः |

वामनक्षत्रेषु मर्कटीगतिःजलभीतिःपितुर्नाशःराजकोपःपदच्युतिःदुर्गारण्येषु अटनम् |

वामनक्षत्रेषु सिंहावलोकनम्स्थानभ्रंशःपित्रोर्वा पितृसमानस्य मरणं |

दशाकालमानम् (पूर्णम् )

अश्विनी वर्गः १
१०० वर्षाणि
भरणी वर्गः १
१०० वर्षाणि
अश्विनी वर्गः २
८५ वर्षाणि
भरणी वर्गः २
८५ वर्षाणि
अश्विनी वर्गः ३
८३ वर्षाणि
भरणी वर्गः ३
८३ वर्षाणि
अश्विनी वर्गः ४
८६ वर्षाणि
भरणी वर्गः ४
८६ वर्षाणि
रोहिणी वर्गः १
८६ वर्षाणि
मृगशिरो वर्गः १
८६ वर्षाणि
रोहिणी वर्गः २
८३ वर्षाणि
मृगशिरो वर्गः २
८३ वर्षाणि
रोहिणी वर्गः ३
८५ वर्षाणि
मृगशिरो वर्गः ३
८५ वर्षाणि
रोहिणी वर्गः
१०० वर्षाणि
मृगशिरो वर्गः ४
१०० वर्षाणि


राशीनां दशामानम्

मेषः
७ वर्षाणि
तुला
१६ वर्षाणि
वृषः
१६ वर्षाणि
वृश्चिकः
७ वर्षाणि
मिथुनम्
९ वर्षाणि
धनुः
१० वर्षाणि
कर्कः
२१ वर्षाणि
मकरः
४ वर्षाणि
सिंहः
५ वर्षाणि
कुम्भः
४ वर्षाणि
कन्या
९ वर्षाणि
मीनः
१० वर्षाणि

प्रथमदशानयनम्

अत्र द्वौ मतभेदौ वर्तेते |

.नक्षत्रचरणे यातांशानुपातेन पूर्णदशामाने त्रैराशिकं कृत्वा गतदशाःनिर्णीतव्याः | जन्मकाले यद्दशा तस्याः भोग्यमानमारभ्यअग्रे दशाः गणनीयाः |

. नक्षत्रचरणे यातांशानुपातेन प्रथमदशामाने एव त्रैराशिकं कार्यम् | प्रथमदशायाः भोग्यमानमारभ्य ‌‌अग्रे दशाः गणनीयाः |
नवमदशावसाने पुनः आरम्भतः चक्ररीत्या गणना कार्या |

दशान्तर्दशाफलानि

पाराशरहोरायां द्रष्टव्यानि | ‌अत्र विशेषःफलानि नवांशानुसारेण दत्तानि | पूर्वोक्तरीत्या ( सारिणी द्रष्टव्या ) नक्षत्रचरणानुसारेण नवांशः निर्णीतव्यः |

Tuesday, July 7, 2015

Is the concept of women empowerment from the west ?

Image result for women empowerment







Probably, yes ! because for the Indians there is no need for any empowerment. They are originally powerful.

In the Vedic culture women played a very important role. The very essence of Vedic religion is observance dharma ( righteousness and religious duties ). 

The dearest and most cherished possession of a Vedic brahmin is his Agni which is generated for himself and his wife at the time of wedding. Oblations are offered in this Agni every day morning and evening for lifetime and the cremation is also performed with this Agni only. The entire life of the couple revolves around this Agni .

The wife is the custodian of this Agni.

Some interesting points are - 

1. When the husband is away, the wife can offer this oblation.

2. The husband does not have the right to do so in the absence of the wife.

3. Prior to offering the oblation, the husband informs the wife formally and she answers in the affirmative. 

The problem is only that we have moved away from our roots to such an extent that people once savage and primitive now have to come back and teach us culture, social behavior and ethics.






Monday, May 18, 2015

Rain Rain go away .............

There was a time when at the beginning of every puja  we used to pray :

काले वर्षतु पर्जन्यः - May the Rain god bless us with timely showers.

Then came - " Rain rain go away .............. " being chanted by hundreds of thousands  children every day in play schools and kindergartens across the country. Even in underprivileged village schools this chanting has become inevitable.

Can God help but answer this prayer from the innocent minds ?

No wonder, we have droughts  every year !


Wednesday, May 13, 2015

Why one should NOT chant mantras !!!!!!!

Mantras bear a relation with respect to the person who is chanting them. Accordingly they are classified into 

1.Siddha
2.Saaddhya
3.Susiddha
4. Ari

The fourth category called Ari mantras are enemies of the person who is chanting them. Which mantra could be an ari mantra for the individual depends on the syllables of the mantra and astrological particulars of the individual. This can be identified only by someone who is adept in mantra sastra.

Chanting  an enemy mantra can lead to destruction .

This is highly individual specific. Public deeksha ceremonies do not take this into account. People who go around advising " Do one mala japa of this mantra or that mantra" do not know this.

Moreover, there tatvas, gunas, gender etc. associated with mantras. Careful consideration of all these is required before taking up mantra chanting.

Better to stay away if you are not under able guidance.

Sincere prayers and simple stotras do no harm.